कन्या
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कन्या, स्त्री, (कन् दीप्तौ अघ्न्यादित्वात् यक् इत्यु- णादौ ४ । १११ । कन्यायाः कनीन् चेति निर्द्दे शात् पाणिनिमतानुसारेण न ङीष् अतष्टाप् ।) कुमारी । इत्यमरः ॥ २ । ६ । ८ । सा तु दशम- वर्षीया । इति स्मृतिः ॥ (यथा महाभारते वनपर्ब्बणि । “यस्मात् कामयते सर्व्वान् कमेर्धातोश्च भाविनि ! । तस्मात् कन्येह सुश्रोणि ! स्वतन्त्रा बरवर्णिनि !” ॥) नारी । ओषधीविशेषः । घृतकुमारी इति ख्याता । इति सेदिनी ॥ यथा सुश्रुते निदानस्थाने ॥ (“कान्तैर्द्वादशभिः पत्रैर्मयूराङ्गरुहोपमैः । कन्दजा काञ्चनक्षीरी कन्या नाम महौषधी” ॥ “शोथघ्नी कासहा कन्या” ॥ इति वैद्यकद्रव्य- गुणः ॥ विशेषगुणादयोऽस्या घृतकुमारीशब्दे द्रष्टव्याः ॥) स्थूलैला । वाराहीकन्दः । बन्ध्याकर्को- टकी । इति राजनिर्घण्टः ॥ * ॥ मेषादिद्वादश- राश्यन्तर्गतषष्ठराशिः । सा तु उत्तरफल्गुनीशेष- पादत्रयहस्तासमुदाययुक्तचित्राप्रथमार्द्धेन भवति । तदधिष्ठातृदेवतायाः स्वरूपं यथा । जले । नौकास्थ- शस्याग्निधारिणी स्त्री । इति दीपिका ॥ अपि च । नीलकण्ठीजातके ॥ “पाण्डुर्द्विपात् स्त्रीद्वितनुर्यमाशा- निशामरुच्छीतसमोदयक्ष्मा । कन्यार्द्धशब्दा शुभभूमिवैश्य- रूक्षाल्पसङ्गप्रसवा शुभा च” ॥ * ॥ मतान्तरे सा तु शीर्षोदया । दिनबला । पिङ्गल- वर्णा । दक्षिणदिक्स्वामिनी । वायुप्रकृतिः । शीत- लस्वभावा । शुद्धभूमिचरा । वैश्यवर्णा । रूक्षा । श्लथाङ्गा । खटच्छब्दा । अल्पसन्ताना । अल्प- पुंसङ्गा च ॥ * ॥ तत्र जातफलम् । “वेदशास्त्रे श्रद्धावान् स्थानरोषे खेदितः भार्य्यायां । सदा विरसश्च” । इति ज्योतिषम् ॥ * ॥ जन्मकालीन- चन्द्राश्रितैतद्राशिफलम् । यथा कोष्ठीप्रदीपः ॥ “युवतिगे शशिनि प्रमदाजन- प्रबलकेलिविलासकुतूहलैः । विमलशीलयुता जननोत्सवैः सुविधिना विधिना सहितः पुमान्” ॥ * ॥ तस्या उदये तन्नामकलग्नं भवति । तस्य गणित- प्राप्तपरिमाणं दशव्यङ्गुलाधिकपञ्चाङ्गुलप्रभे देशे वर्त्तमानोनविंशायनांशे ऊनत्रिंशत्पलाधिकपञ्चद- ण्डाः । इति ज्योतिषम् ॥ * ॥ तत्र जातफलम् । “कन्यालग्नोद्भवो मर्त्यो नानाशास्त्रविशारदः । सौभाग्यगुणसम्पन्नः सुन्दरः सुरतप्रियः” ॥ इति कोष्ठीप्रदीपः ॥ * ॥ सुता । तस्या विवाहं वि- नान्यसंस्कारकर्म्मणि वृद्धिश्राद्धनिषेधो यथा, -- “कन्याया निष्क्रमो नास्ति वृद्धिश्राद्धंन विद्यते । नामान्नप्राशनं चूडां कुर्य्यात् स्त्रीणाममन्त्रकम्” ॥ “जातकर्म्मादिचूडान्तं कुमार्य्याश्चाप्यमन्त्रकम् । कर्त्तव्यं पञ्चभिर्व्वर्णैरेकं निष्क्रमणं विना” ॥ इति च महानिर्व्वाणतन्त्रे नवमोल्लासः ॥ (तीर्थविशेषः । यथा महाभारते ३ । ८३ । १०४ । “ततो गच्छेत धर्म्मज्ञ ! कन्यातीर्थमनुत्तमम् । कन्यातीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्” ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कन्या स्त्री।
कन्या
समानार्थक:कन्या,कुमारी
2।6।8।1।1
कन्या कुमारी गौरी तु नग्निकानागतार्तवा। स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे॥
जन्य : कन्यकासुतः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कन्या¦ स्त्री कन--यत् अघ्र्या॰ नि॰।
“कन्यायाः कनीन् चेतिनिर्देशात्
“वयसि प्रथम” पा॰ न ङीष्।
१ अनूढायां स्त्रियां
२ अनूढदुहितरि
“अकृतोपयमा कन्या” सा॰ द॰।
३ मेषादितः षष्ठे राशौ च। निरुक्तौ
४ ,
१५ । अन्यैवनिरुक्तिरुक्ता।
“कन्या कमनीया भवति क्वेयं नेतव्येतिकमनेनानीयते इति वा कनतेर्वा स्यात् कान्तिकर्मणः” तत्र स-त्र पृषो॰ साधु। भा॰ व॰
३०
६ अ॰ अन्यैव निरुक्तिर्दर्शिता(
“सर्वान् कामयते यस्मात् कमेर्धातोश्च भा-विनि!। तस्मात् कन्येह सुश्रोणि! स्वतन्त्रा व-रवर्ण्णिनि!”
३ योषिन्मात्रे।
“अहल्या द्रौपदी कुन्तीतारा मन्दोदरी तथा। पञ्च कन्याः स्मरेन्नित्यं महापातकनाशनम्” पुरा॰।
“आचारलाजैरिव पौरकन्याः” रघुः
४ दुहितृमात्रे
“नरेन्द्रकन्यास्तमवाप्य सत्पतिम्” रघुः। [Page1651-a 38]
“ब्राह्मणाद्वैश्यकन्यायामम्बष्ठोनाम जायते”
“निषादः शूद्र-कन्यायां यः पारशव उच्यते”।
“क्षत्रियाच्छूद्रकत्यायां क्रूराचारविहारवान्। क्षत्रशूद्रवपुर्जन्तुरुग्रोनास प्रजायते” मनुः तत्र अनूढदुहितरि
“कन्यायां दत्तशुल्कायां श्रोयां-श्चेत् वर आव्रजेत्” कात्या॰ स्मृतिः
“पितृवेश्मनि याकन्या रजः पश्यत्यसंस्मृता। सा कन्या वृषली ज्ञेयाहरंस्तां न विदुष्यति, विष्णुः। ऋतुत्रयमुपास्यैव कन्याकुर्यात् स्वयंवरम्। ऋतुत्रये व्यतीते तु प्रभवत्यात्मनःसदा” विष्णुः।
५ अनूढस्त्रीमात्रे
“प्रसह्य क-न्याहरणं राक्षसोविधिरुच्यते”।
“योऽकन्यां दूषयेत्कन्याम्”।
“अभिषह्य तु यः कन्यां कुर्य्यात् दर्पेणमानवः” इति च याज्ञ॰।
“कन्यैव कन्यां या कुर्य्यात्तस्याः स्याद्द्विशतो दमः”।
“या तु कन्यां प्रकुर्य्यात् सासद्योवै मौण्ड्यमर्हति” मनुः
“कन्यैवाक्षतयोनिर्या” स्मृतिः।
“सह चान्यया स्थविरराजकन्यया” माघः।
“सेकान्ते पुनःकन्याभिस्तत्क्षणोज्झतवृक्षकम्” रघुः। कन्याया भावः। कन्यात्व संज्ञात्वान्न पुंवद्भावः। पुरु-षसङ्गरहितावस्थायां
“कन्यात्वे दूषिते चापि कथं शक्ष्येद्विजोत्तम!” भा॰ आ॰
६० । विवाहयोग्यावस्थाययाञ्च।
“प्रादाच्च तस्यै कन्यात्वं पुनः स परमद्युतिः” भा॰आ॰
११
१ अ॰। कन्यादावविक्रयवोर्गुणदीषौ यथा।
“कन्यां ये तु प्रयच्छन्ति यथाशक्ति स्वलङ्कृताम्। विवाहकालेसंप्राप्ते यथोक्तसदृशे वरे! क्रमात् क्रमं क्रतुशतमनुपूर्वंलभन्ति ते। श्रुत्वा कन्याप्रदानन्तु पितरः प्रपितामहाः। विमुक्ताः सर्वपापेभ्यो ब्रह्मलोकं व्रजन्ति ते। ब्राह्मेण तुविवाहेन यस्तु कन्यां प्रयच्छति। ब्रह्मलोकं व्रजेच्छीघ्रं ब्र-ह्माद्यैः पूजितः सुरैः। दिव्येन तु विवाहेन यस्तु कन्यांप्रयच्छति। भित्त्वा द्वारन्तु सूर्य्यस्य स्वर्गलोकञ्च गच्छति। गान्धर्व्वेण विवाहेन यस्तु कन्यां प्रयच्छति। गन्धर्वलोकमासाद्य क्रीडते देववच्चिरम्। शुल्केन दत्त्वा यो कन्यां तांपश्चात् सम्यगर्च्चयेत्। स किन्नरैश्च गन्धर्वैः क्रीडते कालमक्षंयम्। (शुल्केन गोमिथुनरूपशुल्कोपलक्षितेनार्षेण)न मत्युं कारयेत्तासां पूज्याश्च सततं गृहे। ब्रहु-देया विशेषेण ब्राह्मी भोज्या सदा भवेत्। कन्यायां ब्र-ह्मदेयायामभुञ्जन् सुखमश्नुते। अथ भुञ्जीत यो मोहात्भूक्त्वा स नरकं व्रजेत्। अप्रजायाञ्च कन्यायां न भुञ्जीयात्कदाचन। दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि”। यःकत्यापालनं कृत्वा करोति यदि विक्रयम्। विक्रेता धनलो-[Page1651-b 38] भन कुम्भीपाकं स गच्छति। कन्यामूत्रपुरीषञ्च तत्र भक्ष-ति पातकी। कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्द्दश। मृ-तश्च व्याधयोनौ च स लभेज्जन्म निश्चितम्। विक्रीणीतेमांसभार वहत्येव दिवानिशमिति” ब्रह्मवैवर्त्तपुराणम्। विवाह्यकन्यालक्षमुपयमशब्दे उक्तम्। उद्वहशब्देऽधिकं दृ-श्यम्।
“स्वपितृभ्यः पिता दद्यात् सुतसंस्कारकर्म्मसु” इत्युक्तेःसुतपदस्य पुंस्त्वाविवक्षया कन्यापुत्रसंस्कारेषु वृद्धिश्राद्धेप्राप्ते
“स्त्रीणामप्येवमेव स्यात्” मनूक्तेश्च सर्वसंस्कारेषु चप्राप्तेषु च निष्क्रमभिन्नकन्यासंस्काराणाममन्त्रककतयाकर्त्तव्यता तत्रापि वृद्धिश्राद्धनिषेधमाह महानि॰ त॰
९५ प॰।
“कन्याया निष्क्रमो नास्ति वृद्धिश्राद्धं न विद्यते”। वृद्धिश्राद्धनिषेधेऽपि विवाहे वृद्धिश्राद्धमिष्यत एव
“कन्या-पुत्रविवाहेषु वृद्धिश्राद्धं विधीयते इति” स्मृतेः।
“नामान्न-प्राशनं चूडां कुर्य्यात् स्त्रीणाममन्त्रकम्”। इति
“जात-कर्मादि चूडान्तं कुमार्य्याश्चाप्यमन्त्रकम्। कर्त्तव्यं पञ्च-भिर्वर्ण्णैरेकं निष्क्रमणं विनेति” च। तेन निष्क्रमणभिन्नाः संस्काराः अमन्त्रकाः कार्य्याः। विवाहस्यचोपयनस्थानीयत्वात् न तदाचरणम् इति भेदः
६ धृतकु-मार्य्याम् मेदि॰
७ स्थूलैलावायां
८ वाराहीकन्दे
९ क-न्ध्याकर्कट्याञ्च राजनि॰।
“ग्मौ चेत् कन्या” इत्युक्तलक्षणेचतुक्षरपादके
१० छन्दोभेदे च। कन्याराशिश्च उत्तरफाल्गु-न्याःशेषपादत्रयहस्तचित्रार्द्धनक्षत्रघटितः राशिचक्रे घष्ठः
१५
० सार्द्धशतांशोत्तराशीत्युत्तर शतांशपर्य्यन्तस्त्रिंशदंशा-त्मकः। तदधिष्ठातृदेवतास्वरूपञ्च।
“कन्या प्लवस्था स्मृताः। कन्या शस्यहुताशयुक्” इति जातकप॰। उक्तम् तस्य रा-शेश्च वर्ण्णादिकमुक्तम् नील॰ ता॰ यथा।
“पाण्डुर्द्विपात्स्त्री द्वितनुर्यमाशा निशा मरुत् शीतसमोदयः क्ष्मा। कन्यार्द्धशब्दा शुभभूमिवैश्यरूक्षाल्पसङ्ग प्रसवा शुमा च”। ततश्चास्य राशेः पाण्डवर्णः द्विपदराशिता स्त्रीराशिताद्विस्वभावात्मकता दक्षिणदिगभिमुखता रात्रिरूपता वात-प्रकृतित्वं शीतवीर्य्यं समराशित्वम्। मूमिरूपता। अर्द्धशब्दःशुभस्वामिकत्वम् वैश्यवर्ण्णः रूक्षत्वम् अल्पसङ्गोऽल्पप्रसवःअकूररूपत्वञ्च। तच्च जन्मप्रश्नलग्नफलाद्युपयोगार्थमुक्तम्अस्य स्वामी बुधः। अन्यत्रास्य शीर्षोदयत्वमुकम्
“कन्यांगते पूषणि”
“अप्राप्ते भास्करे कन्याम” इति च ज्यो॰
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कन्या¦ f. (-न्या)
1. A girl nine years old, a virgin.
2. A name of DURGA.
3. The sign of the zodiac, Virgo.
4. The socotrine aloe (Aloes per- foliata.)
6. Large cardamoms.
7. A species of metre of four lines, with four syllables in each.
3. A parasite plant. E. कन् to shine, Unadi affix यक्, fem. टाप्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कन्या [kanyā], [Uṇ.4.111]
An unmarried girl or daughter; R.1.51.2.1,3.33; Ms.1.8.
A girl ten years old.
A virgin, maiden; Ms.8.367,3.33.
A woman in general.
The sixth sign of the zodiac, i. e. Virgo.
N. of Durgā; Mb.3.
Large cardamoms. -Comp. -अन्तःपुरम् the women's apartments; सुरक्षिते$पि कन्यान्तःपुरे कश्चित्प्रविशति Pt.1; Mv.2.5.-आट a. following after or hunting young girls.
(टः) the inner apartments of a house.
a man who hunts or goes after young girls. -कुब्जः N. of a country. (-ब्जम्) N. of an ancient city in the north of India, situated on a tributary of the Ganges, now called Kanoja. -कुमारि f., -री also कन्यकुमारी N. of Durgā; कन्यकुमारि धीमहि Mahānār 3.12. -गतम् the position of a planet in the sign Virgo. -ग्रहणम् taking a girl in marriage. -दानम् giving away a girl in marriage; अद्भिरेव द्विजाग्ऱ्याणां कन्यादानं विशिष्यते Ms.3.35.-दूषकः The violator of a virgin; Ms.3.164. -दूषणम् defilement of a virgin. -दोषः a defect or blemish in al, bad repute (such as a disease &c.) -धनम् dowry; a girl's property. -पतिः 'daughter's husband', a son-in-law. -पालः a dealer in slave girls. -पुत्रः, -गर्भः the son of an unmarried daughter (called कानीन); संघर्ष- जननस्तस्मात्कन्यागर्भो विनिर्मितः Mb.12.2.4. -पुरम् the women's apartments. -प्रदानम् Giving a daughter in marriage; Ms.3.29-31. -भर्तृ -m.
a son-in-law.
N. f Kārttikeya. -भैक्ष्यम् Begging for a girl; Mb.-रत्नम् a very fine girl; कन्यारत्नमयोनिजन्म भवतामास्ते Mv.1.3. -राशिः the sign Virgo. -वेदिन् -m. a son-in-law (marrying one's girl); Y.1.262. -व्रतस्था A woman in her monthly state; मयि कन्याव्रतस्थायां जमुर्मन्दा- किनीतटम् Ks.26.56. -शुल्कम् money given to the bride's father as her price, purchase-money of a girl.-समुद्भव a. Born from an unmarried woman; Ms.9.172. -स्वयंवरः the choice of a husband by a maiden. -हरणम् ravishment or seduction of a maiden; प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते Ms.3.33.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कन्या f. See. कन्याbelow ;([ cf. Zd. kainin ; Hib. cain , " chaste , undefiled. "])
कन्या f. ( कन्Un2. iv , 111 ), a girl , virgin , daughter RV. AV. etc. MBh. etc. ( कन्यांदाor प्र-दाor प्र-यम्or उप-पद्, Caus. to give one's daughter in marriage Mn. viii , ix ; कन्यां प्रति-ग्रह्or हृor वह्, to receive a girl in marriage , marry Mn. ix )
कन्या f. the sign of the zodiac Virgo VarBr2. and VarBr2S. etc.
कन्या f. the female of any animal Mr2icch.
कन्या f. N. of दुर्गाMBh. iii , 8115
कन्या f. N. of a tuberous plant growing in कश्मीरSus3r.
कन्या f. Aloe Perfoliata L.
कन्या f. several other plants L.
कन्या f. N. of a metre (of four lines , each of them containing four long syllables).
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--राशि and month पुरट्टाशि। वा. १०५. ४७. [page१-308 २७]
(II)--daughter of Kardama and wife of Priya- vrata; mother of two daughters and ten sons. Vi. II. 1. 5.
(III)--shrine of, south of Malaya {??}ills, visited by बलराम. भा. X. ७९. १७.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Kanyā : f.: See Kanyāsaṁvedya.
_______________________________
*2nd word in left half of page p304_mci ( offset) in original book.
Mahabharata Cultural Index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Kanyā : f.: See Kanyāsaṁvedya.
_______________________________
*2nd word in left half of page p304_mci ( offset) in original book.
- यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
- यन्त्रोपारोपितकोशांशः-अमरकोशः
- यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्
- यन्त्रोपारोपितकोशांशः-शब्दसागरः
- यन्त्रोपारोपितकोशांशः-Apte
- यन्त्रोपारोपितकोशांशः-Monier-Williams
- यन्त्रोपारोपितकोशांशः-Purana index
- संस्कतशब्दाः
- यन्त्रोपारोपितकोशांशः-Purana Encyclopedia
- यन्त्रोपारोपितकोशांशः-Mahabharata Cultural Index