द्वितीयः परिच्छेदः । । नीपोऽविलिप्तसुरभिरभ्रष्टकलुषं जलम् ॥ ७८.॥ यत्रोक्ते गम्यतेऽन्योऽर्थस्तत्समानविशेषणः । सा समासोक्तिरुद्दिष्टा संक्षिप्तार्थतया यथा ॥७९॥ . स्कन्धवानृजुरव्यालः स्थिरोऽनेकैमहाफलः । जातस्तरुरयं चोचैः पातितश्च नभस्वता ।।८०॥ निमित्ततो वचो यत्तु लोकातिक्रान्तगोचरम् ।। मन्यन्तेऽतिशयोक्तिं तामलङ्कारतया यथा ॥८॥ स्वपुष्पच्छविहारिण्या चन्द्रभासा तिरोहिताः । अन्वमीयन्त भृङ्गालिवाची सप्तच्छदद्रुमाः ॥८२॥ अपां यदि त्वकू शिथिला च्युता स्यात् फणिनामिव । तदा शुक्लांशुकानि स्युरङ्गेष्वम्भसि योषिताम् ॥८३॥ इत्येवमादिरुदिता गुणातिशययोगतः ।। सवैवातिशयोक्तिस्तु तर्कयेत् तां यथागमम् ॥८४॥ सैषा सर्वैव वक्रोक्तिरनया विभाव्यते । यत्नोऽस्या कविना कार्यः कोऽलङ्कारोऽनया विना ॥८५॥ हेतुश्च सूक्ष्म लेशोऽथ नालङ्कारतया मतः ।। समुदायाऽभिधानस्य वक्रोक्त्यनभिधानतः ॥ ८६ ।। गतोऽस्तमक भातीन्दुयन्ति वासाय पक्षिणः । इत्येवमादि, किं काव्यं वार्तामैनां प्रचक्षते ॥८७॥ १. संक्षिभार्था यथा तथा-क। २. स्थिरोऽङ्क-छ।
पृष्ठम्:भामहालङ्कारः.pdf/१७
दिखावट