रायगडमण्डलम्(महाराष्ट्रम्)
Raigad District रायगड जिल्हा | |
---|---|
मण्डलम् | |
महाराष्ट्रराज्ये रायगडमण्डलम् | |
देशः | India |
जिल्हा | रायगडमण्डलम् |
उपमण्डलानि | अलिबाग्, पेण, मुरूड, पनवेल, कर्जत, खालापूर, उरण, माणगाव, सुधागड, रोहा, तळा, महाड, श्रीवर्धन, म्हसाळा,पोलादपुर |
विस्तारः | ७१४८ च.कि.मी. |
जनसङ्ख्या(२०११) | २६,३४,२०० |
Government | |
• मण्डलसङ्गाहकः (District Collector) | श्री. एच. के. जावळे |
Time zone | UTC ५:३० (भारतीयमानसमयः(IST)) |
Website | http://raigad.nic.in |
रायगडमण्डलं (मराठी: रायगड जिल्हा, आङ्ग्ल: Raigad district) महाराष्ट्रराज्यस्य कोङ्कणविभागे स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् अलिबाग् इति नगरम् । इदं मण्डलं समुद्रतटेभ्यः तत्र विद्यमानेभ्यः स्थलेभ्यश्च प्रसिद्धम् अस्ति ।
भौगोलिकम्
[सम्पादयतु]रायगडमण्डलस्य विस्तारः ७१४८ च.कि.मी. मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि पुणेमण्डलं, पश्चिमदिशि अरबीसागरः, उत्तरदिशि ठाणेमण्डलं, दक्षिणदिशि रत्नगिरिमण्डलम् अस्ति । अस्मिन् मण्डले ३८८४ मि.मी. मितः वार्षिकवृष्टिपातः भवति । मण्डलमिदं समुद्रतटे अस्ति अतः आर्द्रवातावरणं भवति । अस्मिन्मण्डले न्यूनतमं १६ अंश C मितम्, अधिकतमं ४० अंश C मितं तापमानं च भवति ।
कृषिः
[सम्पादयतु]तण्डुलः, रागिका, ‘वरी’, ‘कोद्रा’, माषः, 'तूर्', पूगीफलं(betel-nut), हरिद्रा, मरीचिका, इत्येतानि प्रमुखसस्योत्पादनानि मण्डलेऽस्मिन् उत्पाद्यन्ते । आम्र-कदली-नारिकेलफलानाम् उत्पादनमपि भवत्यत्र ।
जनसङ्ख्या
[सम्पादयतु]रायगडमण्डलस्य जनसङ्ख्या(२०११) २६,३४,२०० अस्ति । अस्मिन् ११,१७,६२८ पुरुषाः, १३,४४,३४५ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ३६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ३६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.३६% आसीत् । अत्र पुं.-स्त्री अनुपातः १०००-९५५ अस्ति । अत्र साक्षरता ६०.४ % ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि मण्डलानि प्रशासनसौकर्यार्थं ४ विभागेषु विभक्तानि -
१ 'अलिबाग्' - अलिबाग्, पेण, मुरूड २ 'पनवेल' - पनवेल, कर्जत, खालापूर, उरण ३ 'माणगाव' - माणगाव, सुधागड, रोहा, तळा ४ 'महाड' - महाड, श्रीवर्धन, म्हसाळा, पोलादपुर
लोकजीवनम्
[सम्पादयतु]६३.१७% जनाः ग्रामेषु, ३६.८३% जनाः नगरेषु च निवसन्ति । ग्रामीणभागे कृषिः, कृषिसम्बन्धितानि कार्याणि एव प्रमुखजीविकारूपेण सन्ति । नगरभागे उद्यमाः सन्ति । जनाः तेषु कार्यरताः । कोङ्कणविभागे स्थितमिदं मण्डलम् कोङ्कणीविशेषान् उद्वहति । जनानां लघुगृहाणि, तेषां विशिष्टा संस्कृतिश्च अत्रस्थ विशेषः ।
वीक्षणीयस्थलानि
[सम्पादयतु]अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।
- 'रायगडदुर्गम्' :
मराठासाम्राज्यस्य महान् राजा शिवाजी रायगडदुर्गं निर्मापितवान् । तस्य साम्राज्यस्य एषः मुख्यः दुर्गः आसीत् । इतः एव छत्रपतेः साम्राज्यस्य सञ्चालनं भवति स्म । अतः एषः दुर्गः राजधानीत्वेन आवासितः महाराजेन । अत्रैव महाराजस्य राज्याभिषेकसमारोहः अभवत् । एतस्मिन् दुर्गे महाराजस्य स्मारकं, गङ्गासागरतडागः, जगदीश्वरमन्दिरं च अस्ति ।
यदा 'सिद्दी'वंशीयराजानाम् आधिपत्यम् आसीत्, तदा तेषां साम्राज्यराजधानी आसीत् एषः दुर्गः । एषः जलदुर्गः । ३५० वर्षाणि यावत् एषः दुर्ग अजेयः आसीत् । अत्रस्थाः राजप्रासादाः, गह्वराः च वीक्षणीयस्थलानि ।
- 'समुद्रतीराणि' ः
- माण्डवा - हरिहरेश्वरः - नागाव - काशीद
- 'मन्दिराणि'
- बल्लाळेश्वरगणपतिमन्दिरम्, पाली - वरदविनायकगणपतिमन्दिरम्, महाड - बिरला-गणेशमन्दिरम्, अलिबाग - एलिफन्टा-गह्वराः - कनकेश्वरमन्दिरम् - शिवथरघळ
- माथेरान् इति एकं गिरिधाम ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Site of Raigad District
- http://raigad.nic.in/DG/1964/home.html
- http://www.zpraigad.maharashtra.gov.in/html/raigad_district.asp Archived २०१३-०६-२२ at the Wayback Machine
ठाणेमण्डलम् | ||||
अरबीसागरः | पुणेमण्डलम् | |||
रायगडमण्डलम् | ||||
रत्नगिरिमण्डलम् |