सामग्री पर जाएँ

न बुद्धिभेदं जनयेद्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
न बुद्धिभेदं जनयेद्...


ज्ञानिनः अन्यान् प्रेरयेयुः
श्लोकसङ्ख्या ३/२६
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः सक्ताः कर्मण्यविद्वांसो...
अग्रिमश्लोकः प्रकृतेः क्रियमाणानि...

न बुद्धिभेदं जनयेद् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः ज्ञानिनः अन्यान् प्रेरयेयुः इति वदति । पूर्वस्मिन् श्लोके भगवान् ज्ञानिनम् अज्ञानिवत् कार्यं कर्तुम् उक्त्वा अत्र ज्ञानिने अज्ञानिनां प्रेरणायाः दायित्वं यच्छति । सः कथयति यद्, परमात्मनः स्वरूपे अटलः विद्वान् पुरुषः शास्त्रविहतकर्मसु आसक्तानाम् आज्ञानिनां बुद्धौ विद्यमानं भ्रमम् अर्थात् कर्मसु अश्रद्धां नोत्पादयेत् । किन्तु स्वयं शास्त्रविहितानि सर्वाणि कर्माणि सम्यग्रीत्या आचरन् तान् अपि तथा कर्तुं प्रेरयेदिति ।

श्लोकः

[सम्पादयतु]
गीतोपदेशः
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥

पदच्छेदः

[सम्पादयतु]

न बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गिनाम् जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥ २६ ॥

अन्वयः

[सम्पादयतु]

युक्तः विद्वान् (कर्म) समाचरन् कर्मसङ्गिनाम् अज्ञानां बुद्धिभेदं न जनयेत् । सर्वकर्माणि जोषयेत् ।

शब्दार्थः

[सम्पादयतु]
अन्वयः सरलसंस्कृतम्
युक्तः परमात्मनि लीनः
विद्वान् ज्ञानी
कर्मसङ्गिनाम् कर्मासक्तानाम्
अज्ञानाम् अविदुषाम्
बुद्धिभेदम् संशयम्
न जनयेत् न उत्पादयेत्
सर्वकर्माणि सकलकर्तव्यानि
समाचरन् कुर्वन्
जोषयेत् तैः सेवयेत् (यथा ते सेवन्ते तथा कुर्यात् ।)

व्याकरणम्

[सम्पादयतु]

सन्धिः

[सम्पादयतु]
  1. जनयेदज्ञानाम् = जनयेत् अज्ञानाम् – जश्त्वसन्धिः
  1. बुद्धिभेदम् = बुद्धेः भेदः, तम् – षष्ठीतत्पुरुषः
  2. कर्मसङ्गिनाम् = कर्मणि सङ्गः कर्मसङ्गः – सप्तमीतत्पुरुषः
    1. कर्मसङ्गः एषाम् एषु वा अस्तीति कर्मसङ्गिनः (मुतबर्थे इनिप्रत्ययः) तेषाम्
  3. अज्ञानाम् = जानन्ति इति ज्ञाः । न ज्ञाः अज्ञाः, तेषां – नञ्बहुव्रीहिः
  4. सर्वकर्मणि = सर्वाणि कर्माणि - कर्मधारयः

कृदन्तः

[सम्पादयतु]
  1. युक्तः = युजिर् क्त (कर्तरि)
  2. समाचरन् = सम् आङ् चर् शतृ (कर्तरि)

ज्ञानी कर्मासक्तानाम् अविदुषां भ्रान्तिम् न उत्पादयेत् । स्वयं सत्कार्याणि कुर्वन् तद्द्वारापि तानि कारयेत् ।

भावार्थः

[सम्पादयतु]

'न बुद्धिभेदं...वद्वान्युक्तः समाचरन्' – पूर्वस्मिन् श्लोके यस्य 'असक्तः विद्वान्' इत्यनेन पदेन वर्णनम् अभवत्, तस्यैव आसक्तिरहितस्य विदुषः अत्र 'युक्तः विद्वान्' इत्यनेन विवरणम् अस्ति । यस्य अन्तःकरणे स्वत- एव समता विद्यते, यस्य निर्वकार्यां स्थित्यां भवति, यस्य सर्वाणि इन्द्रियाणि वशीभूतानि सन्ति, यस्य कृते मृत्सुवर्णयोः भेदः नास्ति, तादृशः तत्त्वज्ञः महापुरुषः एव 'युक्तः विद्वान्' उच्यते [] । 'सक्ताः अविद्वांसः' इत्यनेन पूर्वस्मिन् श्लोके येषां शास्त्रविहितकर्मसु आसक्तानाम् अज्ञानिनां पुरुषाणां वर्णनम् अभवत्, तेषाम् एव श्लोकेऽस्मिन् 'कर्मसङ्गिनाम्, अज्ञानाम्' इत्यनेन सम्बोधनम् अभवत् ।

शास्त्रविहितकर्माणि स्वस्य कृते फलं प्राप्तुं ये पुरुषाः कुर्वन्ति, तान् एव अत्र 'कर्मसङ्गी', 'अज्ञानी' इति वदति । श्रेष्ठपुरुषेषु कर्मविषये विशेषं दायित्वं भवति । यतो हि तेषाम् अनुसरणं कृत्वा एव अनेके जनाः स्वकर्म कुर्वन्ति । अतः भगवान् उपर्युक्तपदैः विद्वद्भ्यः आज्ञां यच्छति यद्, श्रेष्ठपुरुषेण तादृशम् आचरणं न करणीयं, येन अज्ञानिपुरुषाणां वर्तमानस्थित्याः पतनं स्यात् । अज्ञानिपुरुषाः ये अधुना यस्यां स्थित्यां सन्ति, तस्याः स्थित्याः विचलनोत्तरं तेषु 'बुद्धिभेद'स्य समुद्भवः एव तेषां पतनम् उच्यते । अत एव विद्वान् स्वकर्तव्यानुसारं शास्त्रोचितानि कार्याणि कुर्यात् । ते अन्ये पुरुषाः अपि निष्कामभावेन कर्तव्यकर्म कर्तुं प्रेरिताः भवेयुः । समाजस्य, गृहस्य च मुख्यजनेनापि अयम् उपदेशः अनुसर्तव्यः ।

बुद्धिभेदोत्पादकानि कानिचन उदाहरणानि । प्रथमोदाहरणम् - 'कर्मसु किम विद्यते ?' कर्मभिः तु जीवः बद्धो भवति । कर्म निष्कृष्टम् एव । कर्मणः त्यागं कृत्वा ज्ञानोपार्जनं कर्तव्यम् इत्यादयः उपदेशाः अन्येषां मनसि कर्तव्यकर्म प्रति अश्रद्धां जनयित्वा अविश्वासम् अपि जनयति । द्वितीयमुदाहरणम् – यत्र कुत्रापि पश्यामः, तत्र स्वार्थः अस्ति । स्वार्थं विना कोऽपि स्थातुं न शक्नोति । सर्वेऽपि स्वस्य स्वार्थं साधयितुं कर्म कुर्वन्ति । यदि मनुष्यः यत्किमपि कर्म करोति, तर्हि तस्मिन् फलेच्छातु भवत्येव । फलेच्छां विना कोऽपि कर्मप्रवृत्तः कथं स्याद् ? इति । तृतीयोदाहरणम् – फलेच्छया स्वस्य कृते कर्म कृते सति फलभोगाय पौनःपुन्येन जन्म स्वीकर्तव्यः भवति इत्यादि । उक्तेषु त्रिषु उदाहरणेषु कामनायुक्तस्य पुरुषस्य कर्मफलात् विश्वासः डोलायते । ततः तस्य फले आसक्ति तु न गच्छति, परन्तु शुभकर्मसु तस्य रुचिः अपि नावशिष्यते । बन्धनस्य कारणम् आसक्तिरेव, न तु कर्म । उक्तप्रवचनानुगुणम् अज्ञानिपुरुषेषु बुद्धिभेदम् अजनयित्वा तत्त्वज्ञपुरुषः स्वस्य वर्णाश्रमानुगुणं स्वकर्तव्यपालनं कृत्वा अन्यान् प्रेरयेत् । एवं सः स्वाचरणेन, वचनेन च अज्ञानिपुरुषेषु बुद्धिभ्रमम् अनुत्पाद्य तेषाम् क्रमशः उद्धाराय प्रयतताम् ।

यानि शास्त्रोचितानि शुभकर्माणि अज्ञानिपुरुषाः कुर्वन्तः सन्ति, तेषां प्रशंसा एव करणीया । तेषां कर्मणि यदि काश्चित् त्रुटयः अदृश्यन्त, तर्हि विदुषा तासां त्रुटीनाम् उपसंहाराय ते प्रेर्यन्ताम् । तेन सह विद्वान् पुरुषः अज्ञानिनं प्रेरयितुं शक्नोति यद्, पुजा-यज्ञ-दानादीनि शुभकर्माणि अत्यावश्याकानि । परन्तु तेषां फलं त्याज्यमेव । यतो हि सुवर्णस्य विक्रयणं कृत्वा पाषाणादीनां स्वीकारः मौढ्यम् एवेति । अर्थात् सर्वाणि शुभकर्माणि फलेच्छारहितानि कर्तव्यानि इति । एवं शनैः शनैः निष्कामभावं प्रति प्रेरितानाम् अज्ञानिनां मार्गात् बुद्धिभेदरूपं विघ्नम् अपि विद्वान् दरीकुर्वीत ।

उपासनाविषयेऽपि विद्वान् पुरुषः बुद्धिभेदं नोत्पादयेत । बहुधा केचन वदन्ति यद्, नामजपकाले यदि हृदि ईश्वरः न तिष्ठति, तर्हि नामजपकार्यं व्यर्थं भवतीति । प्रत्युत विदुषा वक्तव्यं यद्, नामजपः कदापि विफलः न भवति । किञ्च भगवन्तं प्रति किञ्चत् भावे सत्येव नामजपः भवति । अतः नामजपस्य कदापि त्यागः न करणीयः इति । मनुष्येषु सर्वथा गुणरहितत्वं न भवति । अतः अज्ञानिशु स्थितानां गुणानां प्रशंसां कृत्वा तेषाम् अवगुणानां परिष्काराय प्रयासः करणीयः । 'समाचरन्', 'जोषयेत्' इत्येताभ्यां पदाभ्यां भगवान् विद्वद्भ्यः द्वे आज्ञे ददाति । प्रप्रथमा तु स्वयं सावधानतया शास्त्रविहितानि कर्तव्यकर्माणी कुर्वीरन् । अपरा च कर्मसु आसक्तानाम् अज्ञानिपुरुषाणां प्रेरकैः भूत्वा ते अपि प्रेर्यन्ताम् । अन्येषु प्रभावं जनयितुं कृतं कर्म 'दम्भः' इति [] । अत एव भगवान् अन्यान् प्रदर्शयितुं न अपि तु लोकसङ्ग्रहार्थं कर्म कर्तुम् आदिशति । तत्त्वज्ञपुरुषाय किमपि कर्तव्यकर्म नावशिष्यते, परन्तु तेन कर्तव्यकर्मणां सुचारुतया अवलम्बनं करणीयं, येन कर्मासक्तानां पुरुषाणां निष्कामकर्म प्रति महत्त्वबुद्धिः समुद्भवेत् ।

विदुषां निष्कामभावपूर्वकं कर्म दृष्ट्वा अज्ञानिनः अपि तथा कर्म कर्तुं प्रेरिताः भवन्ति । तात्पर्यम् अस्ति यद्, महापुरुषाणाम् आसक्तिरहितम् आचरणम् अज्ञानिमनुष्यं प्रेरयति । तस्मिन्नपि आसक्तिरहितं कर्म कर्तुम् इच्छां जागर्ति । एवं ज्ञानिपुरुषः कर्मसु आसक्तान् पुरुषान् आदरपूर्वकं बोधयित्वा तान् निषिद्धकर्मभ्यः मोचयेत । ततश्च निषिद्धकर्मभ्यः मुक्तः अज्ञानी पुरुषः सकामकर्मणां त्यागं कृत्वा निष्कामानि कर्माणि कुर्याद् इति अपि द्रष्टव्यम् ।

शाङ्करभाष्यम्

[सम्पादयतु]

एवं लोकसंग्रहं चिकीर्षोर्ममात्मविदो न कर्तव्यमस्त्यन्यस्य वा लोकसंग्रहं मुक्त्वा | ततस्तस्यात्मविद इदमुपदिष्यते- नेति। बुद्धेर्भेदः बुद्धिभेदः ‘मया इदं कर्तव्यं भोक्तव्यं चास्य कर्मणः फलम्’ इति निश्चयरूपाया बुद्धेः भेदनं चालनं बुद्धिभेदः तं न जनयेत् न उत्पादयेत् अज्ञानाम् अविवेकिनां कर्मसङ्गिनां कर्मणि आसक्तानां आसङ्गवताम् । किं नु कुर्यात् ? जोषयेत् कारयेत् सर्वकर्माणि विद्वान् स्वयं तदेव अविदुषां कर्म युक्तः अभियुक्तः समाचरन् ॥२६||


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
सक्ताः कर्मण्यविद्वांसो...
न बुद्धिभेदं जनयेद्... अग्रिमः
प्रकृतेः क्रियमाणानि...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]
  1. गीता, अ. ६ , श्लो. ८
  2. गीता, अ. १६, श्लो. ४

अधिकवाचनाय

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=न_बुद्धिभेदं_जनयेद्...&oldid=393848" इत्यस्माद् प्रतिप्राप्तम्