क्
दिखावट
|
अस्य उच्चारणस्थानं कण्ठः अस्ति ।व्यञ्जनवर्णेषु प्रथमः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः अल्पप्राणवर्णः अस्ति ।
अर्थः
[सम्पादयतु]- ब्रह्मा
- विष्णुः
- महेश्वरः
- मन्मथः
- अग्निः
- वायुः
- यमः
- सूर्यः
- आत्मा
- दक्षब्रह्मा
- मयूरः
- मनः
- बुद्धिः
- आहतः शब्दः
- समुद्रः
- श्वेतवर्णः
- वसु
- द्युतिः
- शिरः
- जलम्
- सुखम्
को ब्रह्मात्मानिलाकाग्निचित्तधीयमकेकिषु ।
विषावाहतशब्देऽपि सितवर्णे वसौ द्युतौ ॥
कं शिरोऽम्बुसुखे क्लीबं तत्रैव च कमव्ययम् ।-नानार्थवर्गः ।
मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोम्बुनोः।
कश्चन तद्धितप्रत्ययः -पुत्रकः, वृक्षकः